________________
१४८
[अष्टमो
- मनुस्मृतिः। निक्षेपोपनिधी नित्य न देयौ प्रत्यनन्तरे। . नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥१८५ स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे । न स राज्ञा नियोक्तव्यो. न निक्षेप्तुश्च बन्धुभिः ॥१८६ अच्छलेनैव चान्विच्छेत्तमर्थ प्रीतिपूर्वकम् । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥१८७ निक्षेपेष्वेषु सर्वेषु विधिः स्यात्वरिसाधने । समुद्रे नाप्नुयात्किचिद्यदि तस्मान्न संहरेत् ॥१८८ चौरहतं जलेनोढमग्निना दग्धमे वा। ... न दद्याद्यदि तस्मात्त न संहरति किंचन ॥१८६ निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च। सर्वैपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ॥१६० योनिक्षेपं नार्पयति यश्वानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥१६१ निक्षेपस्यापहर्तारं तत्समं. दापयेइमम् । " तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥१६२ उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधर्वधैः ॥१६३ निक्षेपो यः कृतो येन यावांश्च कुलसन्निधौ । तावानेव स विशेयो विब्रुवन्दण्डमर्हति ॥१६४
मिथो दायः कृतो येन गृहीतो मिथ एव वा। .. मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥१६५