________________
अन्यायः] राजधर्मइण्डविधानवर्णनम्।
कृतानुसारादधिका व्यतिरिक्ता न सिद्धयति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥१५२ . नातिसांवत्सरी वृद्धिं न चादृष्टी विनिहरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥१५३ भृणं दातुमशक्तो यः कर्तुमिच्छेत्युनः क्रियाम् । स दत्त्वा निर्जितां वृद्धि करंणं परिवर्तयेत् ॥१५४ अदर्शयित्वा तव हिरण्यं परिवर्तयेत् । यावतो सम्भवेद्वद्धिस्तावती दातुमर्हति ॥१५५ . चक्रवृद्धिं समारूढो देशकालव्यवस्थितः। अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात् ॥१५६ समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥१५७ यो यस्य प्रतिभूस्तिष्ठेहर्शनायेह मानवः । अदर्शयन्स तं तस्य प्रयच्छे (यतेन) स्वधनादृणम ॥१५८ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुमईति ॥१५६ दर्शनप्रातिभाव्ये तु विधिः स्यापूर्वचोदितः । दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥१६० अदातरि पुनीता विज्ञातप्रकृतावृणम् । पश्चात्प्रतिभुवि प्रते परीप्सेकेन हेतुना ॥१६१ निरादिष्टधनश्वेत्तु प्रतिभूः स्यादलंधनः। स्वधनादेव तद्दद्यानिरादिष्ट इति स्थितिः ॥१६२