________________
१४४
मनुस्मृतिः।
[अष्टमो द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्धकिल्विषी ॥१४१ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ।।१४२ । न स्वेवाधौ सोपकारे कौसीदी वृद्धिमाप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः॥१४३ न भोक्तव्यो बलादाधि जानो वृद्धिमुत्सृजेत् । मूल्येन तोषयेचैनमाधिस्तेनोऽन्यथा भवेत् ॥१४४" आधिश्वोपनिधिश्चोभौ न कालात्ययमहतः । अवहार्यो भवेतां तौ दीर्घकालमवस्थितौ ॥१४५ संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । ' धेनुरुष्ट्रो बहनश्वोयश्च दम्यः प्रयुज्यते ॥१४६ यत्किचिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी। भुज्यमानं परैस्तूष्णीं न स तल्लव्धुमर्हति ॥१४७ अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भग्न तद्वयवहारेण भोक्ता तद्र्व्यमर्हति ॥१४८ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः। राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ १४६ यः स्वामिनाऽननुज्ञातमाधिं भुङ्क्तेऽविचक्षणः । तेनावृद्धिर्मोक्तव्या तरय भोगस्य निष्कृतिः ॥१५० कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता । धान्ये सदे लवे वाह्ये नातिक्रामति पश्चताम् ॥१५१