________________
ध्यायः] द्रव्यपरिमाणनिरूपणवर्णनम् । १४३
बधेनापि यदा स्वेतान्निग्रहीतुं न शक्नुयात् । तदेषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ।।१३० लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्यामशेषतः ॥१३१
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः। • प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥१३२ त्रसरेणवोऽष्टौ विज्ञेया लिका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ।।१३३ सर्षपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम्। पञ्चकृष्णलिको माषस्ते सुवर्णस्तु षोडश ।।१३४ पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधते विज्ञेयो रौप्यमाषकः ॥१३५ ते षोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञ यस्तानिकः कार्षिकः पणः ॥१३६ धरणानि दश ज्ञयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञ यस्तु प्रमाणतः ॥१३७ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः। मध्यमः पंच विज्ञ यः सहस्र वेव चोत्तमः १३८ ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।' अपह्नवे तद्विगुणं तन्मनोरनुशासनम् ॥१३६ वसिष्ठविहितां वृद्धि सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान्मासाद्वाईषिकः शते ॥१४०