________________
१४०
मनुस्मृतिः।
[अष्टमो यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् । तावतः सङ्घयया तस्मिन् शृणु सौम्यानुपूर्वशः ।।६७ पंच पश्वनृते हन्ति दश हन्ति गवानृते। शतमश्वानृते हन्ति सहस्रं पुरुषानृते ।।६८ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मास्म भूम्यनृतं वदीः ॥६६ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥१०० एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥१०१ गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रैष्यान्वाधुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥१०२ तद्वदन्धर्मतोऽर्थेषु जाननप्यन्यथा नरः। न स्वर्गाच्च्यवते लोकादेवीं वाचं वदन्ति ताम् ॥१०३ शूद्रबिट्क्षत्रविप्राणां यत्रतॊक्तौ भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥१०४ वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृति पराम् ॥१०५ कुष्माण्डर्वाऽपि जुहुयाघृतमग्नौ यथाविधि । उदित्यूचा वा वारुण्या तृचेनाब्दैवतेन वा ॥१०६ त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः । तद्दणं प्राप्नुयात्सर्व दशबंधं च सर्वतः ।।१०७