________________
. टण्डमहति ॥३२
.....
१३४ . मनुस्मृतिः।
[अष्टमो ममेदमिति यो ब्रुयात्सोऽनुयोज्यो यथाविधि। . संवाद्य रूपसंख्यादीन्स्वामी तद्रव्यमर्हति ॥३१ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । वणं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥३२ आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः। दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥३३. प्रनष्टाधिगतं द्रव्यं तिष्ठेद्य क्तैरधिष्ठितम् । .. यांस्तत्र चौरान्गृह्णीयात्तात्राजेभेन घातयेत् ॥३४ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥३५ अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसी कलाम् ॥३६ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥३७ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्विजेभ्यो दत्त्वाऽर्धमध कोशे प्रवेशयेत् ॥३८ निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभारक्षणाद्राजा भूमेरधिपतिहि सः ॥३६ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्ह तं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्विषम् ॥४० जातिजानप्रदान्धर्मान्छणीधमाश्च धर्मवित् । समीक्ष्य कुलधर्मश्च स्वधर्म प्रतिपादयेत् ।।४१