SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राजधर्मदण्डविधानवर्णनम्। '१३३ जातिमात्रोपजीवी वा कामं स्याद्वाह्मणब्रुवः । धर्मप्रवक्ता नृपतेन तु शूद्रः कथंचन ॥२० यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तय सीदति तद्राष्ट्र पङ्के गौरिव पश्यतः ॥२१ यद्राष्ट्र शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ।।२२ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥२३ अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मी च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥२४ वाय विभावयेल्लिङ्गर्भावमन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥२५ आकारैरिङ्गितर्गत्या चेटयां भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥२६ बालदायादिकं रिक्यं तावदाजानुपालयेत् । यावत्स स्यात्समावृत्तो याबद्वाऽतीतशैशवः ॥२७ वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥२८ जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ्छिष्याचौरदण्डेन धार्मिकः पृथिवीपतिः ॥२६ प्रणटस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अकिव्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् ॥३०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy