SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ . मनुस्मृतिः। [सप्तमो एवं प्रयत्नं कुर्वीत यानशय्यासनाशने। . स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥२२० भुक्तवान्विहरेश्चैव स्त्रीभिरन्तःपुरे सह। विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥२२१ अलङ्क तश्च संपश्येदायुधीयं पुनर्जनम्। वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥२२२ सन्ध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ।।२२३ गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥२२४ तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः। संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥२२५ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः। अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥२२६ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां राज्यशासनधर्मवर्णननाम सप्तमोऽध्यायः ॥ ७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy