________________
१२६
ऽध्यायः] राज्यशासनधर्मवर्णनम् ।
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ २०६ प्राझं कुलीनं शूरं च दक्षं दातारमेव च । कृतज्ञ धृतिमन्तं च कष्टमाहुररिं बुधाः ॥२१० आर्यता पुरुषज्ञानं शौयं करुणवेदिता। स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥२११ । क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि। परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥२१२ आपदर्थं धनं रक्षेदारानक्षेद्धनैरपि । आत्मनं सततं रक्षेद्दारैरपि धनैरपि ॥२१३ सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्। संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः ॥२१४ उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः। एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ।२१५ एवं सर्वमिदं राजा सह संमन्त्र्य मन्त्रिभिः । व्यायम्याप्लुत्य मध्याह्न भोक्तुमन्तःपुरं विशेत् ॥२१६ तत्रात्मभूतैः कालौरहार्यः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मौर्बिषापहैः ॥२१७ विषन(रुदौरगदैश्चास्य सर्वव्याणि (शोधयेत् योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥२१८ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥२१६