________________
ऽध्यायः
राजधर्मदण्डविधानवर्णनम्।
अष्टनोऽध्यायः राजधर्मदण्डविधानवर्णनम्।
...
व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः। मन्त्रीमन्त्रिभिश्चैव विनीतः प्रविशत्सभाम् ॥ १ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥२ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।. अष्टादशसु मार्गेषु निबद्धानि पृथक पृथक् ॥३ तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः। सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥४ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः। क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥५. सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके। स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥६ स्त्रीपुंधर्मो विभागश्च घतमाह्वय एव च। पदान्यष्टादशैतानि ब्यवहारस्थिताविह ॥७ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥८