SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १२६ मनुस्मृतिः। [सप्तमो यदि तत्रापि सम्पश्येहोषं संश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ।।१७६ सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । यथाऽस्याभ्यधिका न स्युमित्रोदासीनशत्रवः ॥१७७ आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्वतः ॥१७८ आयत्यां गुणदोषज्ञस्तदावे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥१७६ यथैनं नाभिसन्दध्युमित्रोदासीनशत्रवः । तथा सवं संविदध्यादेष सामासिको नयः ॥१८० यदा तु यानमातिष्ठ दरिराष्ट्र प्रति प्रभुः। .. तदाऽनेन विधानेन यायादरिपुरं शनैः ।।१८१ मार्गशीर्ष शुभे मासि यायाद्यात्रां महीपतिः । फाल्गुनं वाऽथ चैत्र वा मासौ प्रति यथाबलम् ॥१८२ अन्येष्वपि तु कालेषु यदा पश्येद्धृवं जयम् । तदा यायाद्विगृह्येव व्यसने चोस्थिते रिपोः ॥१८३ कृत्वा विधानं मूले तु यात्रिकं च यथाबिधि । उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च ।।१८४ संशोध्य त्रिबिधं मार्ग षड्विधं च बलं स्वकम्।। साम्परायिककल्पेन यायादरिपुरं शनैः ।।१८५ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥१८६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy