________________
१२४ मनुस्मृतिः।
[ सप्तमो कृत्स्नं चालविवं कर्म पञ्चवर्ग च तत्त्वतः। . अनुरागापरागौ च प्रचार मण्डलस्य च ॥१५४ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उड़ासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥१५५ एताः प्रकृतयो मूलं मण्डलस्य समासतः। अष्टौ चान्याः समाख्याता द्वादशैब तु ताः स्मृताः ॥१५६ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥१५७ अनन्तरमरि विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥१५८ तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमः। व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥१५६ संधि च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥१६० आसनं चैव यानं च सन्धि विग्रहमेव च । कार्य वीक्ष्य प्रयुञ्जीत द्वधं संश्रयमेव च ॥१६१ संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥१६२ समानयानकर्मा च विपरीतस्तथैव च। सदा वायतिसंयुक्तः सन्धि यो द्विलक्षणः ॥१६३ स्वयंकृतश्च कार्यमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥१६४