________________
ऽध्यायः] राज्यशासनधर्मवर्णनम् । १२३
विक्रोशन्त्यो यस्य राष्ट्राद्धि यन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥१४३ क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥१४४ उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निब्राह्मणांश्चा» प्रविशेत्स शुभां सभाम् ॥१४५ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥१४६ गिरिपृष्ठ समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥१४७ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्त्रां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥१४८ अडमूकान्धबधिरांस्तैर्यग्योनान्वयोतिगान् । सीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥१४६ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्राइतोभवेत् ॥१५० मध्यन्दिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा ॥१५१ परस्परविरुद्धानां तेषां च समुपार्जनम् । अन्यानो सन्प्रदानं च कुमाराणां च रक्षणम् ॥१५२ दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । अन्नपुरप्रचारं च क्रणिधीनां च चेष्टितम् ॥१५३