________________
१२२
मनुस्मृतिः। [सप्तमो पत्रशाकतृणानां च वैदलस्य च चर्मणाम् । मृण्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥१३२ नियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधाऽस्य संसीदेच्छोत्रियो विषये वसन् ॥१३३ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा। तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥१३४ श्रुतवृत्ते विदित्वास्य वृत्तिं धा प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पितापुत्रमिवौरसम् ॥१३५ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्यहम् । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥१३६ यत्किंचिदपि वर्षस्य दापयेत्करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्र पृथग्जनम् ॥१३७ कारुकाछिल्पिनश्चैब शूद्रांश्चात्मोपजीविनः । एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥१३८ नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया। उच्छिन्दन्ह्यात्मनो मूलमात्मानं तश्च पीडयेत् ॥१३६ तीक्ष्णश्चैव मृदुश्च स्यात्कायं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥१४० अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गवम् । स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम् ॥१४१ एवं सर्व विधायेदमितिकर्तव्यमात्मनः । युक्तश्चैत्राप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥१४२