________________
ऽध्यायः] राज्यशासनधमवर्णनम् ।
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तनम् । उचैःस्वानं घोररूपं नक्षत्राणामिव ग्रहम् ।।१२१. स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् । . तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रषु तच्चरैः ॥१२२ राज्ञो हि रक्षाधिकृताः पररवादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्योरक्षे दिमाः प्रजाः ॥१२३ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः। तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥१२४ राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेवृत्ति स्थानकर्मानुरूपतः ॥१२५ । पणो देयोऽवकृष्ठस्य षडुत्कृष्ठस्य वेतनम् । पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥१२६ क्रयविक्रयमध्यानं भक्तं च सपरिव्ययम् । योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत्करान् ॥१२७ यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य नृपो राष्ट्र कल्पयेत्सततं करान् ।।१२८ यथाल्पाल्पमदत्याद्य वार्योकोवत्सषट्पदाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञादिकः करः ॥१२६ पञ्चाशद्भांग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानामष्ठमो भागः षटो द्वादश एव वा ।।१३० आददीताथ षड्भागं दुमांसमधुसर्पिषाम् । गंधौषधिरसानां च पुष्पमूलफलस्य च ॥१३१