SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अध्यायः राज्यशासनधर्मवर्णनम् । तदध्यास्योद्वहेद्भार्या सवर्णा लक्षणान्विताम् । कुले महति संभूतां हृद्यां रूपगुणान्विताम् ।।७७ पुरोहितं च कुर्वीत वृणुयादेव चत्विजः। तेऽस्य गृह्याणि कर्माणि कुर्युवैतानिकानि च ॥७८ यजेत राजा क्रतुभिर्बिबिधराप्तदक्षिणैः । धर्मार्थ चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥७६ सांवत्सरिकमाप्तश्च राष्ट्रादाहारयेद्वलिम् । स्याचाम्नायपरो लोके वर्तेत पितृवन्नृषु ।।८० अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाग्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥८१ आवृत्तानां गुरुकुलाद्विप्राणां पूजकोभवेत् । नृपाणामक्षयो ह्येष निधिळझोऽभिधीयते ॥८२ न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥८३ न स्कन्दति न च्यवते न विनश्यति कहिंचित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ।।८४ सममब्राह्मणे दानं द्विगुणं. ब्राह्मणब्रुवे ।। प्राधीते (आचार्ये) शतसाहस्रमनन्तं वेदपारगे ॥८५ पात्रस्य हि विशेषेण श्रद्दधानतयैव च। अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥८६ समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः । न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥८७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy