________________
ऽभ्यायः] राज्यशासनधर्मवर्णनम् ११५
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किं नु राज्यं महोदयम् ॥५५ तैः साद्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥५६ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ।।५७ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । ' मंत्रयेत्परमं मंत्रं राजा पाड्गुण्य संयुतम् ।।५८ नित्यं तस्मिन्समाश्वम्तः सर्वकार्याणि निक्षिपेत् । तेन साद्धं विनिश्चित्य ततः कर्म समारभेत् ॥५६ अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तृनमात्यान्सुपरीक्षितान् ॥६० निवर्ततास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥६१ तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तनिवेशने ॥६२ दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्ष कुलोद्गतम् ॥६३ अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥६४ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोषराष्ट्र च दूते सन्धिविपर्ययौ ॥६५
गा
।
.