________________
ऽध्यायः] राज्यशासनधर्मवर्णनम् ।
एवं वृत्तस्य नृपतेः शिलोच्छनापि जीवतः । विस्तीर्यते यशो लोके तैलविन्दुरिवाम्भसि ॥३३ अतस्तु विपरीतस्य नृपतेरजितात्मनः। संक्षिप्यते यशो लोके घृतविन्दुरिवाम्भसि ॥३४' स्वे स्त्रे धर्मे निविष्टानां सर्वेषामनुपूर्वशः । वर्णानामाश्रमाणां च सजा सृष्टोऽभिरक्षिता ॥३५ तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥३६ ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविधवृद्धान्विदुषस्तिष्ठत्तेषां च शासने ॥३७ वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥३८ तेभ्योऽधिगच्छद्विनयं विनीतात्माऽपि नित्यशः। विनीतात्मा हि नृपतिर्न विनश्यति कहिंचित् ।।३६ बहवोऽविनयानष्टा राजानः सपरि (प्रहाः) च्छदाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥४० वेनो विनष्टोऽविनयानहुषश्चैव पार्थिवः । सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥४१ . पृथुस्तु वि.नयाद्राज्यं प्राप्तवान्मनुरेव च। . कुवेरश्च धनैश्चर्य ब्राह्मण्यं चैव गाधिजः ॥४२ विद्यभ्यस्त्रयी विद्याहण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां वार्तारम्भांश्च लोकतः ॥४३
८