________________
११२
मनुस्मृतिः।
[सप्तमो सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ।।२२ देवदानवगन्धर्वा रक्षांसि पतगोरगाः। तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ।।२३ दुष्येयुः सर्ववर्णाश्च भिद्य रेन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ।।२४ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥२५ तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ।।२६ . तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते । कामात्मा (कामान्धो) विषमः क्षुद्रो दण्डेनैव निहन्यते ॥२७ दण्डो हि सुमहत्तेजो दुर्धरश्वाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ।।२८ ततो दुर्ग च राष्ट्र च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ।।२९ सोऽसहायेन मूढ़ेन लुब्धेनाकृतबुद्धिना। न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥३० शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥३१ स्वराष्ट्र न्यायवृत्तः स्याभृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेष क्षमान्वित्तः ॥३२