________________
ऽध्यायः] राज्यशासनधर्मवर्णनम् । १११
यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥११ तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥१२ तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ।।१३ तस्यार्थे सर्वभूतानां गोतारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्यूर्वमीश्वरः ।।१४ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ।।१५ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ।।१६ स राजा पुरुषोदण्डः स नेता शासिता च सः। चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥१७ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ।।१८ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥१६ यदि न प्रणयेद्राजा दण्डं दण्ड्यष्वतन्द्रितः। शूले मस्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ।।२० अद्यात्काकः पुरोडाशं श्वाऽवलिह्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तताधरोत्तरम् ।।२१