________________
१०७
ध्यायः] संन्यासवर्णनम् ।
अह्ना रात्र्या च याञ्जन्तून्हिनस्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्धयर्थं प्राणायामान् षडाचरेत् ॥६॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमंतपः ॥७० दह्यन्ते ध्यायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।।७१ प्राणायामैर्दहेदोषान्धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥७२ उच्चावचेतु भूतेषु दुर्जेयामकृतात्मभिः । ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः ।।७३ सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ।।७४ अहिंसयेन्द्रियासङ्गवैदिकश्चैव कर्मभिः । तपसश्चरणैश्चोग्रौः साधयन्तीह तत्पदम् ॥७५ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चौवनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥७६ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ।।७७ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निा देहं कृच्छाद्वाहाद्विमुच्यते ॥७८ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ।।७६