SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [षष्ठो १०८ ___मनुस्मृतिः। यदा भावेन भवति सर्वभावेषु निष्पृहः । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ।।८० अनेन विधिना सात्यक्त्वा सङ्गाञ्छनैःशनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥८१ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् । न ह्यनध्यात्मविकश्चिक्रियाफलमुपाश्नुते ॥८२ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ।।८३ इदं शरणमज्ञानामिदमेव. विजानताम् । इदमन्विच्छता स्वर्गमिदमानन्त्यमिच्छताम् ।।८४ अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ।।८५ एष धर्मोऽनुशिष्ठो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥८६ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ।।८७ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्र निषेविताः । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ।।८८ सर्वेषामपि चैतेषां वेदस्मृति (श्रुति) विधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्विभति हि ॥ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥६०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy