SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १०६ मनुस्मृतिः। [षष्ठो अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः। अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥५८ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ।।५६ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्त्वाय कल्पते ॥६० अवेक्षेत गतीनूणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥६१ विप्रयोगं प्रियश्चैव संयोगं च तथाऽप्रियैः। जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥६२ देहादुत्क्रमगं च.स्मात्पुनर्गर्भे च सम्भवम् । योनिकोटिसहस्रषु सतीश्चास्यान्तरात्मनः ॥६३ अधर्मप्रभवं चैव दु खयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥६४ सूक्ष्मतां चान्वक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥६५ भूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्ग धर्मकारणम् ॥६६ फलं कतकवृक्षस्य यद्यायम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ।।६७ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥६८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy