________________
ऽध्यायः] संन्यासवर्णनम्।
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥४७ क्रुध्यन्तं न प्रतिक्र ध्वेदाक्रष्टः कुशलं वदेत् । सप्तद्वारावकीर्णा च न वाचमनृतां वदेत् ॥४८ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥४६ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥५० न तापसैाह्मणैर्वा वयोभिरपि वा श्रभिः । आकीर्ण भिक्षुकैर्वाऽन्यैरागारमुपसंबजेत् ।।५१ क्लुप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ।।५२ अतैजसानि पात्राणि तस्य स्युनिव्रणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ।।५३ अलाबु दारुपात्रं च मृण्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत् ॥५४ एककालं चरेद्भक्ष न प्रसज्जत विस्तरे। भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सजति ॥५५ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने। वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥५६ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ।।५७