SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १०१ फुयायः] वानप्रस्थवर्णनम् । संत्यज्य ग्राम्यमाहारं सर्व चैव परिच्छदम् । पुत्रेषु भार्या निक्षिप्य वनं गच्छेत्सहैव वा ॥३ अग्निहोत्रं समादाय गृह्य चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ।।४ मुन्यन्न विविधर्मध्यः शाकमूलभलेन वा। एतानेव महायज्ञानिवपेद्विधिपूर्वकम् ॥५ वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । जटाश्च विभृयान्नित्यं श्मश्रुलोमनखानि च ॥६ यद्भक्ष्यं स्यात्ततो दद्याद्वलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ।७ स्वाध्याये नित्ययुक्तः स्याद्दान्तोमैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ।।८ वैतानिकं च जुहुयादग्निहोत्री यथाविधि । दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः ।। मृक्षेष्टयाग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दाक्षस्यायनमेव च ॥१० वासन्तशारदैर्मध्येर्मुन्यन्नः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव बिधिवनिर्वपेत्पृथक् ।।११ देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि भुञ्जीत लवणं च स्वयं कृतम् ।।१२ स्थलजौदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् ।।१३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy