SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] शरीरशुद्धिवर्णनम् । ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः। यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥१३२ मक्षिका विषश्छाया गौरश्वः सूर्यरश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥१३३ विण्मूत्रोत्सर्गशुद्धयर्थं मृद्वार्यादेयमर्थवत्। .. दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ।।१३४ वसा शुक्रमसृङमज्जामूत्रविट्याणकर्णविट् । श्लेष्माश्रुदूषिकास्वेदो द्वादशैते नृणां मलाः ॥१३५ एका लिङ्ग गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥१३६ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ।।१३७ . कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् । वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥१३८ त्रिराचामेदपः पूर्व द्विः प्रमृज्यात्ततोमुखम् । शारीरं शौचमिच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत् ॥१३६ शूद्राणां मासिकं कायं वपनं न्यायवर्तिनाम् । वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥१४० नोच्छिष्टं कुर्वते मुख्या विग्रुषोऽङ्ग पतन्ति याः। न श्मभूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ।।१४१ स्पृशन्ति विन्दवः पादौ य आचामयतः परान् । भौमिकैस्ते समा ज्ञेया न तैराप्रयतोभवेत् ॥१४२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy