________________
भक्ष्याभक्ष्यवर्णनम्
या वेदविहिता हिंसा नियताऽस्मिंश्वराचरे । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्वभौ ॥४४ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । स जीवंश्च मृतश्चैव न क्वचित् सुखमेधते ॥ ४५ यो बन्धनबधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ||४६ यध्यायति यत्कुरुते रतिं वध्नाति यत्र च । तदवाप्नोत्ययत्नन यो हिनस्ति न किंचन ॥४७ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिबधः स्वर्यस्तस्मान्मांसं विवर्जयेत् ॥४८ समुत्पत्तिं च मांसस्य बधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥४६ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५० अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ।। ५१ स्वमांसं परमांसेन यो वर्धयितुमिच्छति । अनभ्यर्च्य पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृतत् ।। ५२ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५३ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥५४
ऽध्यायः ]
८६