SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [पञ्चमो मनुस्मृतिः। नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः। जग्ध्वा ह्यविधिना मांसं प्रेत्य (प्रेतः) तैरद्यतेऽवशः ।।३३ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ।।३४ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥३५ असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कदाचन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥३६ कुर्याद्वृतपशु सङ्ग कुर्यापिष्टपशु तथा। नत्वेव तु वृथा हन्तुं पशुमिच्छेत् कदाचन ॥३७ यावन्ति पशुरोमाणि तावत् कृत्वोह मारणम् । वृथापशुध्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥३८ यज्ञार्थं पशवः सृष्टाः स्वयमेव सयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे बधोऽबधः ॥३६ ओषध्यः पशवो वृक्षास्तिर्यञ्च पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥४० मधुपर्के च यज्ञे च पितृदेवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥४१ एष्वर्थेषु पशून हिंसन् वेदतत्त्वार्थविद्विजः। आत्मानं च पशुञ्च वगमयत्युत्तमां गतिम् ।।४२ गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः । नावेदविहितां हिंसामापद्यपि समाचरेत् ॥४३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy