SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अभक्ष्यवर्णनम् । यज्ञार्थं ब्राह्मणैर्बध्याः प्रशस्ता मृगपक्षिणः। भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ २२ वभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ २३ यत्किचित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत्पर्युषितमप्याद्य हबिशेषं च यद्भवेत् ॥२४ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः । यवगोधूमजं सर्व पयसश्चैव विक्रिया ॥ २५ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः। मांसल्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥२६ प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ २७ प्राणस्यान्नमिदं सर्व प्रजापतिरकल्पयत् । स्थावरं जङ्गमं चैव सर्वप्राणस्य भोजनम् ।। २८ चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः। अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ २६ नात्ता दुव्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि । धात्रैव सृष्टा ह्याद्याश्वप्राणिनोऽत्तार एव च ॥ ३० यज्ञाय जग्धिांसस्येत्येष देवो विधिः स्मृतः । अतोऽन्यथाप्रवृत्तिस्तु राक्षसोविधिरुच्यते ॥३१ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा । देवान् पितॄश्चार्चयित्वा खादन्मांसं न दुष्यति ॥३२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy