________________
मनुस्मृतिः। [पञ्चमो क्रव्यादः शकुनीन् सांस्तथा ग्रामनिवासिनः । अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥ ११ कलविङ्क प्लवं हंसं चक्राह्व प्रामकुक्कुटम् । सारसं रज्जुदालं च दात्यूहं शुकसारिके ।। १२ प्रतुदान् जालपादांश्च कोयष्टिनखविष्किरान् । निमजतश्च मत्स्यादान् सौनं बल्लूरमेव च ॥ १३ बकं चैव बलाकां च काकोलं खंजरीटकम् । मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ।। १४ यो यस्य मांसमश्नाति स तन्मांसादउच्यते ।। मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् ॥१५ पाठीनरोहितावाद्यौ नियुक्ती हव्यकव्ययोः । राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ १६ न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पंचनखांस्तथा ॥ १७ श्वाविधं शल्यकं गोधां खड्ग कूर्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः॥ १८ छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्टुं गृञ्जनं चैव मत्या जग्ध्धा पतेद्विजः ।। १६ अमत्यैतानि षड्जग्ध्वा कृच्छ सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥ २० संवत्सरस्यैकमपि चरेत्कृच्छू द्विजोत्तमः। . अज्ञातमुक्तशुद्धयर्थं ज्ञातस्य तु विशेषतः ।। २१