SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [चतुर्थो शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णदेत् ।।२५० गुरुभृत्यांश्चोजिहीर्षन्नचिंष्यन्देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ।। २५१ गुरुषु त्वभ्यतीतेषु विना वा तैगृहे वसन् । आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ।। २५२ आर्थिकः कुलमित्रं च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मान निवेदयेत् ।। २५३ यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । यथा चोपचरेदेनं तथाऽऽत्मानं निवेदयेत् ।। २५४ योऽन्यथा संतमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ।। २५५ वाच्या नियताः सर्वे वाङमूला वाग्विनिःसृताः । तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ।। २५६ महर्षिपितृदेवानां गत्वाऽऽनृण्यं यथाविधि । पुत्रे सर्व समासज्य वसेन्माध्यस्थ्यमास्थितः ।।२५७ एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनि । एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ।।२५८ एषोदिता गृहस्थस्य वृत्तिविप्रस्य शाश्वती। स्नातकबतकल्पश्च सत्त्ववृद्धिकरः शुभः ।। २५६ अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् । ... व्यपेतकल्मषो नियं ब्रह्मलोके महीयते ।। २६० इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां चतुर्थोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy