________________
ऽध्यायः] गृहस्थाश्रम (धर्म) वर्णनम्। ८३
नामुत्र हि सहायार्थ पिता माता च तिष्ठतः । न पुत्रदारा न ज्ञातिधर्मस्तिष्ठति केवलः ।। २३६ एकः प्रजायते जन्तुरेक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २४० मृतं शरीरमुत्सृज्य काष्ठलोष्ठंसमं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ।। २४१ तस्माद्धर्म सहायार्थं नित्यं संचिनुयाच्छनैः। धर्मेण हि सहायेन तमस्तरति दुस्तरम् ।। २४२ धर्मप्रधानं पुरुषं तपसा हतकिल्वषम् । परलोकं नयत्याशु भास्वन्तं स्वशरीरिणम् ॥ २४३ उत्तमैहत्तमैर्नित्यं सम्बन्धानाचरेत्सह। निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ।। २४४ उत्तमानुत्तमान्गच्छन्हीनान्हीनाञ्चवर्जयन् । ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ।। २४५ दृढकारी मृदुर्दान्तः कराचारैरसंवसन् । अहिंस्रो दमदानाभ्यां जयेत्स्वर्ग तथाव्रतः ॥ २४६ एधोदकं मूलफलमन्नमभ्युद्यतं च यत्। सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ २४७ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । मेने प्रजापतिह्यामपि दुष्कृतकर्मणः ॥ २४८ नाश्नन्ति पितरस्तस्य दशवर्षाणि पंच च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ २४६