________________
मनुस्मृतिः।
[चतुर्थों अश्लीक (ल) मेतत्साधूनां यत्रजुह्वत्यमी हविः । प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत् ।।२०६ मत्ता द्धातुराणां च न भुञ्जीत कदाचन । केशकोटावपन्नंच पदा स्पृष्टं च कामतः ॥२७० भ्रूणघ्नावेक्षितं चैव संस्पृष्ठं चाप्युदक्यया । पतत्रिणाऽवलीढं च शुना संस्पृष्टमेव च ।।२०८ गवा चान्नमुपाघ्रातं घुष्टान्नच विशेषतः । गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ।।२०६ स्तेनगायनयोश्चान्नं तक्ष्णोर्वाधुषिकस्य च । दोक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥२१० अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ।।२११ चिकित्सकस्य मृगयोः करस्योच्छिष्टभोजिनः । उप्रान्नं सूतिकान्नं च पर्याचान्तमनिर्देशम् ।।२१२ अनर्चितं वृथामांसमवीरायाश्च योषितः । द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ।।२१३ पिशुनानृतिनोश्वान्नं क्रतुविक्रयिणस्तथा । शैलुषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥२१४ कारस्य निषादस्य रङ्गावतरकस्य च । सुवर्णकर्तुर्वणस्य शस्त्रविक्रयिणस्तथा ।।२ १५ श्ववतां शौण्डिकानां च चैलनिणेजकस्य च । रञ्ज (रज ) कस्य नृशंसस्य यस्य चोपपतिगृहे ।।२१६