SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गृहस्थाश्रमवर्णनम् । मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः । अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥२१७ राजान्नं तेज आदत्ते शूद्रान्न ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥२१८ कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नञ्च लोकेभ्यः परिकृन्तति ॥२१६ पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठावाधुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥२२० य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः । तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥२२१ भुक्त्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं व्यहम् । मत्या भुक्त्वाऽऽचरेत्कृच्छू रेतोविणमूत्रमेव च ।।२२२ नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः। आददीताममेवास्मादवृत्तावेकरात्रिकम् ।। २२३ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वाधुषः । मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ।।२२४ तान् प्रजापतिराहैत्य मा कृढ्वं विषमं समम् । श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।। २२५ श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्द्धनैः ॥ २२६ दानधर्म निषेवेत नित्यमैष्टिकपौर्तिकम् । परितुष्टेन भावेन पात्रमासाद्य शक्तितः ।। २२७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy