SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ७४ [चतुर्थो मनुस्मृतिः। नातिकल्यं नातिसायं नातिमध्यं दिने स्थिते। नाज्ञातेन समं गच्छेत्लैको न वृषलैः सहः॥१४० हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान वयोऽधिकान् । रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥१४१ न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । न चापि पश्येदशुचिः स्वस्थो ज्योतिर्गणान्दिवि ॥१४२ स्पृष्ट्वैतानशुचिनित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥१४३ अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः। रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥१४४ मङ्गलाचारयुक्त स्यात्प्रयतात्मा जितेन्द्रियः । जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥१४५ मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुहूतां चैव विनिपातो न विद्यते ॥१४६ वेदमेवाभ्यसे (जपे) न्नित्यं यथाकालमतन्द्रितः । सं घस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥१४७ वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौविकीम ॥१४८ पौविकी संस्मरन् जातिं ब्रह्म बाभ्यस्यते द्विजः । ब्रह्माभ्यासेन चाजसमनन्तं सुखमश्नुते ॥१४६ सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः । पितृश्चैवाष्ठकास्वर्चेन्नित्यमन्वष्टकासु च ॥१५०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy