SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ७२ ___ मनुस्मृतिः। [चतुर्थो चौरैरुपप्लुते गामे संभ्रमे चाग्निकारिते। आकालिकमनध्यायं विद्यात् सद्भुतेषु च ॥११८ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतं । अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥११६ नाधीयीताश्वमारूहो न वृक्ष न च हस्तिनम् । न नावं न खरं नोष्ट्र नेरिणस्थो न यानगः ॥१२० न विवादे न कलहे न सेनायां न सङ्गरे । न भुक्तमात्रे नाजीणे न वमित्वा न शुक्तके ॥१२१ अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् । रुधिरे च स ते गात्राच्छस्त्रेण च परिक्षते ॥१२२ सामधनावृग्यजुषी नाधीयीत कदाचन । वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ॥१२३ ऋग्वेदो देवदैवयो यजुर्वेदस्तु मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्धनिः॥१२४ एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् । क्रमशः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ।।१२५ पशुमण्डुकमार्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्निशम् ॥१२३ द्वावेव वर्जयेन्नियमनध्यायौ प्रयत्नतः । स्वाध्यायभूमिं चाशुद्वामात्मानं चाशुचिं द्विजः ॥१२७ अमावास्यामष्टमी च पौर्णमासी चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यतौ स्नातको द्विजः ।।१२८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy