SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ७१ ऽध्यायः] गृहस्थाश्रमवर्णनम् । नित्यानध्याय एव स्याग्रामेषु नगरेषु च। . धर्मनैपुण्यकामानां पूतगन्धे च सर्वशः ॥१०७ अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥१०८ उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने। उच्छिष्टः श्राद्धभुक्चैव मनसाऽपि न चिन्तयेत् ॥१०६ प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टनिकेतनं । व्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥११० यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥१११ शयानः प्रौढपादश्च कृत्वा चैवावसथिकाम् ।। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥११२ नीहारे वाणशब्दे च सन्ध्ययोरेव चोभयोः। . अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥११३ अमावास्या गुरु हन्ति शिष्यं हन्ति चतुर्दशी। ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥११४ पांशुवर्षे दिशां दाहे गोमायुविरुते तथा । श्रखरोष्ट्र च रुवति पङ्क्तौ च न पठेद्विजः ।।११५ नाधीयीत श्मशानान्ते प्रामान्ते गोव्रजेऽपि वा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥११६ प्राणि वा यदि वाऽप्राणि यत्किञ्चिच्छाद्धिकं भवेत् । तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥११७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy