SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ७० मनुस्मृतिः। [चतुर्थो पुष्ये तु च्छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः। माघशुक्लत्य वा प्राप्ते पूर्वाह्न प्रथमेऽहनि ।। ६६ यथाशास्त्रं तु कृत्वैवमुत्सर्ग छंदसां वहिः । विरमेत् पक्षिणी रात्रिं तदेवैकमहर्निशं ॥ १७ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्पक्षेषु सम्पठेत् ॥ ६८ नाविस्पष्ठमधीयीत न शूद्रजनसन्निधौ । न निशान्ते परिश्रान्तो ब्राह्माधीत्य पुनः स्वपेत् ।। ६६ यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । ब्रह्मन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ।। १०० इमान्नित्यमनध्यायानधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकं ।। १०१ कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने।। एतौ वर्षास्वनध्यायावध्यायशाः प्रचक्षते ॥१०२ विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे । आकालिकमनध्यायमेतेषु मनुरखवीत् ।।१०३ एतांस्त्वम्युदितान् विद्यात् यदा प्रादुष्कृतामिषु । तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥१०४ निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान्विद्यादनध्यायानृतावपि ॥१०५ प्रादुष्कृतेष्वमिषु तु विद्य त्स्तनितनि स्वने । सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥१०६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy