SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गृहस्थाश्रमवर्णनम् । दशसूनासमं चक्र दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ।। ८५ दशसूनासहस्राणि यो बाहयति सौनिकः । तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ।। ८६ यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः। स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ ८७ तामिस्रमन्धतामिस्र महारौरवरौरवौ । नरकं कालसूत्रं च महानरकमेव च ॥ ८८ संजीवनं महावीचिं तपनं सम्प्रतापनम् । संहातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ।। ८६ लोहशंकुमृजीषं च पन्थानं शाल्मली नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥६० एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकांक्षिणः ॥६१ ब्राह्म मुहूर्ते बुद्धथत धर्मार्थों चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ १२ उत्यायावश्यकं कृत्वा कृतशौचः समाहितः । पूर्वा सन्ध्यां जपंस्तिष्ठेत् स्वकाले चापरां चिरं॥ ६३ ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः । प्रज्ञां यशश्च किति च ब्रह्मवर्चसमेव च ॥६४ श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छदास्यधीयीत मासान्विप्रोऽर्धपंचमान् ।। ६५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy