________________
ऽध्यायः] गृहस्थाश्रमवर्णनम् - एतद्वोऽभिहितं सर्व विधानं पाञ्चयज्ञिकम्।।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥२८६ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः।
अथ गृहस्थाश्रम वर्णनम् । चतुर्थमायुषो भागमुषित्वाऽऽद्य गुरौ द्विजः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥१ अद्रोहेणैव भूतनामल्पद्रोहेण वा पुनः। . या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥२ यात्रामात्रप्रसिद्धयर्थं स्वैः कर्मभिरगर्हितः । अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥३ भृतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा। सत्यानृताभ्यामपिवा न श्ववृत्त्या कदाचन ॥४ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षप्रमृतं कर्षणं स्मृतम् ॥५ सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेबा श्ववृत्तिराख्याता तस्मात् ता परिवर्जयेत् ॥६ कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । त्र्यहैकिको वाऽपि भवेदश्वस्तनिक एव वा ॥७