SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धवर्णनम् प्रक्षाल्य हस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् । ज्ञातिभ्यः सत्कृतं दत्वा बान्धवानपि भोजयेत् ॥२६४ उच्छेषणं तु तस्तिष्ठेद्यावद्विप्रा विसर्जिताः । ततो गृहवलिं कुर्यादिति धर्मो व्यवस्थितः ।।२६५ हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवदत्तं तत् प्रवक्ष्याम्यशेषतः ॥२६६ तिलैीहियवैर्मारद्भिर्मूलफलेन वा । दत्तन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ।।२६७ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरणाथ चतुरः शाकुनेनाथ पंच वै ॥२६८ षण्मासांछागमांसेन पार्वतेन च सप्त वै। अष्टावणेय मांसेन रौरवेण नवैव तु ॥२६६ दशमासांस्तु तृप्यन्ति वराहमहिपामिपैः । शशकूर्मयोस्तु मांसेन मासानेकादशव तु ॥२७ संवत्सरे तु गव्येन पयसा पायसेन च । बाणसस्य मांसेन तृप्तिादशवार्षिकी ॥२७१ कालशाकं महाशल्काः खङ्गलोहामिपं मधु । आनन्त्यायैव कल्यन्ते मुन्यन्नानि च सर्वशः ॥२७२ यत्किचिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् । तदप्यक्षयमेव स्याद्वर्षासु च मघासु च ॥२७३ अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिा प्राश्छाये कुञ्जरस्य च ।।२७४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy