SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ५६ मनुस्मृतिः । यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः । ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम् ॥२३१ स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ २३२ हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैः शनैः । अन्नाद्यनासन्वैतान्गुणैश्च परिचोदयेत् ॥ २३३ व्रतस्थमपि दौहित्रं श्राद्ध यत्नेन भोजयेत् । कुतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम् ॥२३४ त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥२३५ अत्युष्णं सर्वमन्न स्याद्भुञ्जीरंस्ते च वाग्यताः । न च द्विजातयो ब्रूयुर्दात्रा पृष्टाहविर्गुणान् ||२३६ यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः । पितरस्तावदश्नन्ति यावन्नोका हविर्गुणाः ॥ २३७ यद्वेष्टितशिरा भुङ्क्त े यद्भुङ्क्त े दक्षिणामुखः । सोपानत्कश्च यद्भुक्त े तद्वै रक्षांसि भुञ्जते ॥ २३८ चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च । रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ||२३६ होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते । देबे हविषि पित्र्ये वा तद्गच्छ्रत्ययथातथम् २४० घ्राणेन शूकरो हन्ति पक्षवातेन कुकुटः । श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः || २४१ [ तृतीयो
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy