________________
ऽध्यायः]
श्राद्धवर्णनम् ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापि तं श्राद्धं स्वकं पितरमाशयेत् ॥२२० पिता यत्त्य निवृत्तः स्याज्जीवेच्चापि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥२२१ पितामहो वा तच्छाद्धं भुञ्जीतेत्यब्रवीन्मनुः। कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥२२२ तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् । तत्पिण्डा प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ।।२२३ पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् । विप्रांतिके पितृन्ध्यायञ्छनकैरुपनिक्षिपेत् ।।२२४ . उभयोहम्तयोर्मुक्तं यदन्नमुपनीयते। तद्विप्रलुम्पन्त्यसुराः सहसा दुश्चेतसः ॥२२५ गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु । विन्यसेत्प्रयतः पूर्व भूमावेव समाहितः ॥२२६ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च। . हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥२२७ उपनीय तु तत्सर्वं शनकैः सुसमाहितः । परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन् ॥२२८... नास्रमापातयेजातु न कुप्येन्नानृतं वदेत् । न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥२२६ असं गमयति प्रेतान् कोपोरीननृतं शुनः । पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥२३०