SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धवर्णनम् .. यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः।। ब्रह्मविट् परिवित्तिश्च गणाभ्यन्तर एव च ॥१५४ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च। . पौनर्भवश्च काणश्च यस्य चोपपतिगृहे ॥१५५ भृतकाध्यापको यश्च भृतकाध्यापितस्तथा। शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥१५६ . अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा । बाम यौनैश्च सम्बन्धैः संयोगं पतितर्गतः ॥१५७ .. अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी वन्दी च तैलिकः कुटकारकः ॥१५८ पित्रा विवदमानश्च कितवो मद्यपस्तथा। पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥१५६ धनुःशराणां कर्ता च यश्चान दिधिषूपतिः । मित्र ग्ध तवृत्तिश्च पुत्राचार्यस्तथैव च ॥१६० .. भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वाः स्युर्वेदनिन्दक एव च ॥१६१ हस्तिगोश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति । .. पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥१६२ स्रोतसां भेदको यश्च तेषां चावरणे रतः। गृहसम्बेशको दूतो वृक्षारोपक एव च ॥१६३ श्वक्रोडी श्येनजीवी च कन्यादूषक एव च । हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥१६४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy