SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] । अतिथिवर्णनम् । न ब्राह्मणस्य त्वतिथिहे राजन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥११० यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् । भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥१११ वैश्यशूद्रावपि प्राप्तौ कुटुम्वेऽतिथिधर्मिणौ। भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥११२ इतरानपि सख्यादीन् संप्रीत्या गृहमागतान् । प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ।।११३ सुवासिनीः कुमारीश्च रोगिणो गर्भिणी:स्त्रियः । अतिथिभ्योऽत्र एवैतान् भोजयेदविचारयन् ११४ अदत्त्वा तु य एतेभ्यः पूर्व भुक्तऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्र जंग्धिमात्मनः॥११५ भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैवहि । भुञ्जीयांतां ततः पश्चादवशिष्टतु दम्पति ।।११६ देवानृषीन्मनुष्यांश्च पितॄन् गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥११७ अघं स केवलं भुङ्क्त यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्य तत् सतामन्न विधीयते ॥११८ राजविस्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥११६ राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते । मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः ॥१२०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy