SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [तृतीयो यथा वायु समाश्रित्य वर्तन्ते सर्वजन्तवः। . तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ।।७७ यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान न चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृहीम् ।।७८ स सन्धार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता। सुखं चेहेच्छता नित्यं योऽधार्यो दुर्वलेन्द्रियैः ॥७६ ऋषयः पितरो देवा भूतान्यतिथयस्तथा । आशासते कुटुम्विभ्यस्तेभ्यः कार्य विजानता १८० स्वाध्यायेनाच येतर्षीन्होमैर्देवान्यथाविधि । पितृञ्छाद्धश्च नृनन्न भूतानि बलिकर्मणा ।।८१ कुर्यादहरहः श्राद्धमन्नाद्य नोदकेन वा। पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ।।८२ . एकमप्याशयेद्विप्रं पित्रर्थे पांचयज्ञिके । न चैवात्राशयेत् कंचिद्वश्वदेवं प्रति द्विजम् ।।८३ वैश्यदेवस्य सिद्धस्य गृह्य ऽसौ विधिपूर्वकम् । .. आभ्यः कुर्याइ वताभ्यो ब्राह्मणो होममन्वहम् ।।८४ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्यश्च व देवेभ्यो धन्वन्तरय एव च ।।८५ कुहू चैवानुमत्यै च प्रजापतय एव च । सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ।।८६ एवं सम्यग्धविहु त्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ।।८७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy