________________
ऽध्यायः गृहस्थस्य पञ्चमहायज्ञाः।
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्याच गच्छन्ति कर्षन्ति च महद्यशः ॥६६ वैवाहिकेऽसौ कुर्वीत गृह्य कर्म यथाविधिः । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकी गृही ॥६७ पंच सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु बाहयन् ॥६८ तासां क्रमेण सर्वासां निष्कृत्यथं महर्षिभिः । पंचक्लप्सा महायज्ञाः प्रत्यहं गृहमेधिनाम् ।।६६ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलिभौंतो नृयज्ञोऽतिथिपूजनम् ।।७० पंचतान् यो महायज्ञान हापयति शक्तितः । स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥७१ देवतातिथिभृत्यानां पितृणामात्मनश्च यः। न निर्वपति पंचानामुच्छ्वसन स जीवति ।।७२ अहुतं च हुतं चैव तथा प्रहुतमेव च। ब्रामपं हुतं प्राशितं च पश्चयज्ञान् प्रचक्षते ।।७३ जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः । ब्राह्मथ हुतं द्विजाप्रथार्चा प्राशितं पितृतर्पणम् ।।७४ स्वाध्याये नित्ययुक्तः स्याहवे चैवेह कर्मणि । दैवकर्मणि युक्तो हि विभतीदं चराचरम् ॥७५ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याजायते वृष्टिकृष्ट रन्न ततः प्रजाः ॥७६