________________
[ द्वितीयो
मनुस्मृतिः। विषादप्यमृतं ग्रह्य बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ।।२६९ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः ।। अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥२४१ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्ति वसेत् । ब्राह्मणे चाननूचाने काङ्कन गतिमनुत्तमाम् ॥२४२ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥२४३ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥२४४ न पूर्व गुरवे किञ्चिदुपकुर्वीत धर्मवित् । स्नास्यांस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ।।२४५ क्षेत्रं हिरण्यां गामस्वं छत्रोपानहमासनम् । धान्य शाकञ्च वासांसि गुरुवे प्रीतिमावहेत् ।।२४६ आचार्ये तु खलु प्रेते गुरुपुत्रगुणान्विते । गुरुदारे सपिण्डे वा गुरुववृत्तिमाचरेत् ।।२४७ एतेष्वविद्यमानेषु स्थानासनविहारवान् । प्रयुञ्जानोऽग्निशुश्रूषां साधयेह हमात्मनः ॥२४८ एवञ्चरति यो विप्रो ब्रह्मचर्यमविप्लुतः ।
सगच्छत्युत्तमस्थानं न चेहा जायते पुनः ।।२४६ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां द्वितीयोऽध्यायः ।।