________________
[द्वितीयो
मनुस्मृतिः। विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ।।२१७ यथा खनन् खनित्रेण नरो वार्याधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषरधिगच्छति ।।२१८ मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः। नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित् ।।२१६ तं चेदभ्युदियात् सूर्यः शयानं कामचारतः। निम्लोचेद्वाप्यविज्ञानाजपन्नुपवसेदिनम् ।।२२० सूर्योण ह्यभिनिर्मुक्तःशयानोऽभ्युदितश्च यः । प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥२२१ आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः। शुचौ देशे जपं जप्यमुपासीत यथाविधि ।।२२२ यदि स्त्री यद्यवरजः श्रेयः किंचित् समाचरेत् । तत् सर्वमाचरेद्यु क्तो यत्र वास्य रमेन्मनः ।।२२३ धर्मार्थावुच्यते श्रेयः कामार्थों धर्म एव च । अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ।।२२४ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नातेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।।२२५ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ।।२२६ यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।।२२७