SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [द्वितीयो प्रतिश्रवणसम्भाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥१६५ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः । प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावस्तु धावतः ॥१६६ पराङ्मुखस्या भिमुखो दूरस्थस्यैत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥१६७ नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ।।१६८ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।।१६६ गुरोर्यत्र परीवादो निन्दावापि प्रवतते। कौँ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥२०० परीवादात् खरो भवति श्वा वै भवति निन्दकः । परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥२०१ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः। यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ।।२०२ प्रतिवातेऽनुवाते च नासीत गुरुणा सह । असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्तयेत् ।।२०३ गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा साद्धं शिलाफलकनौषु च ।।२०४ गुरोर्गुरौ सन्निहिते गुरुववृत्तिमाचरेत् । न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ।।२०५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy